ऋषिः - अथर्वा

देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः

छन्दः - पराबृहती निचृत्प्रस्तारपङ्क्तिः

स्वरः - दीर्घायुष्य सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो नो॒ आग॑न्। ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ॥

स्वर सहित पद पाठ

इन्द्रे॑ण । द॒त्तः । वरु॑णेन । शि॒ष्टः । म॒रुत्ऽभि॑ः । उ॒ग्रः । प्रऽहि॑तः । न॒ः । आ । अ॒ग॒न् । ए॒षः । वा॒म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ । मा । क्षु॒ध॒त् । मा । तृ॒ष॒त् ॥२९.४॥


स्वर रहित मन्त्र

इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन्। एष वां द्यावापृथिवी उपस्थे मा क्षुधन्मा तृषत् ॥


स्वर रहित पद पाठ

इन्द्रेण । दत्तः । वरुणेन । शिष्टः । मरुत्ऽभिः । उग्रः । प्रऽहितः । नः । आ । अगन् । एषः । वाम् । द्यावापृथिवी इति । उपऽस्थे । मा । क्षुधत् । मा । तृषत् ॥२९.४॥