ऋषिः - शम्भुः

देवता - द्यावापृथिवी, आयुः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायु प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥

स्वर सहित पद पाठ

द्यौः । त्वा॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । ज॒राऽमृ॑त्युम् । कृ॒णु॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यथा॑ । जीवा॑ः । अदि॑तेः । उ॒प‍स्थे॑ । प्रा॒णा॒पा॒नाभ्या॑म् । गु॒पि॒तः । श॒तम् । हिमा॑ः ॥२८.४॥


स्वर रहित मन्त्र

द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने। यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥


स्वर रहित पद पाठ

द्यौः । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवाः । अदितेः । उप‍स्थे । प्राणापानाभ्याम् । गुपितः । शतम् । हिमाः ॥२८.४॥