atharvaveda/2/28/4
ऋषिः - शम्भुः
देवता - द्यावापृथिवी, आयुः
छन्दः - त्रिष्टुप्
स्वरः - दीर्घायु प्राप्ति सूक्त
द्यौ: । त्वा॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । ज॒राऽमृ॑त्युम् । कृ॒णु॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यथा॑ । जीवा॑: । अदि॑ते: । उ॒पस्थे॑ । प्रा॒णा॒पा॒नाभ्या॑म् । गु॒पि॒त: । श॒तम् । हिमा॑: ॥२८.४॥
द्यौ: । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवा: । अदिते: । उपस्थे । प्राणापानाभ्याम् । गुपित: । शतम् । हिमा: ॥२८.४॥