ऋषिः - ब्रह्मा

देवता - आयुः

छन्दः - निचृत्पुरोदेवत्यापङ्क्तिः

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

म्रोकानु॑म्रोक॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः। यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥

स्वर सहित पद पाठ

म्रोक॑ । अनु॑ऽम्रोक । पुन॑ः । व॒ः । य॒न्तु॒ । या॒तव॑ः । पुन॑ः । हे॒तिः। कि॒मी॒दि॒न॒ः । यस्य॑ । स्थ । तम् । अ॒त्त॒ । यः । व॒ः । प्र॒ऽहै॑त् । तम् । अ॒त्त॒ । स्वा । मां॒सानि॑ । अ॒त्त॒ ॥२४.३॥


स्वर रहित मन्त्र

म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥


स्वर रहित पद पाठ

म्रोक । अनुऽम्रोक । पुनः । वः । यन्तु । यातवः । पुनः । हेतिः। किमीदिनः । यस्य । स्थ । तम् । अत्त । यः । वः । प्रऽहैत् । तम् । अत्त । स्वा । मांसानि । अत्त ॥२४.३॥