ऋषिः - अथर्वा

देवता - आपः

छन्दः - स्वराड्विषमात्रिपाद्गायत्री

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

आपो॒ यद्व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

स्वर सहित पद पाठ

आप॑ः । यत् । व॒ः । तेज॑ः । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒त॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः ॥२३.५॥


स्वर रहित मन्त्र

आपो यद्वस्तेजस्तेन तमतेजसं कृणुत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥


स्वर रहित पद पाठ

आपः । यत् । वः । तेजः । तेन । तम् । अतेजसम् । कृणुत । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ॥२३.५॥