ऋषिः - अथर्वा
देवता - आपः
छन्दः - एकावसानासमविषमात्रिपाद्गायत्री
स्वरः - शत्रुनाशन सूक्त
आप॑ः । यत् । व॒ः । तप॑ः । तेन॑ । तम् । प्रति॑ । त॒प॒त॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः ॥२३.१॥
आपः । यत् । वः । तपः । तेन । तम् । प्रति । तपत । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ॥२३.१॥