ऋषिः - अथर्वा

देवता - अग्निः

छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

अग्ने॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

स्वर सहित पद पाठ

अग्ने॑ । यत् । ते॒ । तप॑ः । तेन॑ । तम् । प्रति॑ । त॒प॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः ॥१९.१॥


स्वर रहित मन्त्र

अग्ने यत्ते तपस्तेन तं प्रति तप यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥


स्वर रहित पद पाठ

अग्ने । यत् । ते । तपः । तेन । तम् । प्रति । तप । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ॥१९.१॥