ऋषिः - चातनः

देवता - शालाग्निः

छन्दः - अनुष्टुप्

स्वरः - दस्युनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥

स्वर सहित पद पाठ

परि॑ । धामा॑नि । आ॒सा॒म् । आ॒शुः । गाष्ठा॑म्ऽइव । अ॒स॒र॒न् । अजै॑षम् । सर्वा॑न् । आ॒जीन् । व॒ः । नश्य॑त । इ॒तः । स॒दान्वा॑ः ॥१४.६॥


स्वर रहित मन्त्र

परि धामान्यासामाशुर्गाष्ठामिवासरन्। अजैषं सर्वानाजीन्वो नश्यतेतः सदान्वाः ॥


स्वर रहित पद पाठ

परि । धामानि । आसाम् । आशुः । गाष्ठाम्ऽइव । असरन् । अजैषम् । सर्वान् । आजीन् । वः । नश्यत । इतः । सदान्वाः ॥१४.६॥