ऋषिः - चातनः

देवता - शालाग्निः

छन्दः - अनुष्टुप्

स्वरः - दस्युनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥

स्वर सहित पद पाठ

अ॒सौ । यः । अ॒ध॒रात् । गृ॒हः । तत्र॑ । स॒न्तु॒ । अ॒रा॒य्य᳡ः । तत्र॑ । से॒दिः । नि । उ॒च्य॒तु॒ । सर्वा॑ः । च॒ । या॒तु॒ऽधा॒न्य᳡ः ॥१४.३॥


स्वर रहित मन्त्र

असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः। तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥


स्वर रहित पद पाठ

असौ । यः । अधरात् । गृहः । तत्र । सन्तु । अराय्य᳡ः । तत्र । सेदिः । नि । उच्यतु । सर्वाः । च । यातुऽधान्य᳡ः ॥१४.३॥