ऋषिः - भृग्वङ्गिराः
देवता - सूर्यः
छन्दः - सप्तापदा धृतिः
स्वरः - पाशमोचन सूक्त
तासु॑ । त्वा॒ । अ॒न्तः। ज॒रसि॑ । आ । द॒धा॒मि॒ । प्र । यक्ष्म॑ः । ए॒तु॒ । निःऋ॑तिः। प॒रा॒चैः । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । निःऋ॑त्याः । जा॒मि॒ऽशं॒सात् । द्रु॒हः । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.५॥
तासु । त्वा । अन्तः। जरसि । आ । दधामि । प्र । यक्ष्मः । एतु । निःऋतिः। पराचैः । एव । अहम् । त्वाम् । क्षेत्रियात् । निःऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.५॥