atharvaveda/2/10/4
ऋषिः - भृग्वङ्गिराः
देवता - वातपत्नी
छन्दः - सप्तापदा धृतिः
स्वरः - पाशमोचन सूक्त
इ॒मा: । या: । दे॒वी: । प्र॒ऽदिश॑: । चत॑स्र: । वात॑ऽपत्नी: । अ॒भि । सूर्य॑: । वि॒ऽचष्टे॑ । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.४॥
इमा: । या: । देवी: । प्रऽदिश: । चतस्र: । वातऽपत्नी: । अभि । सूर्य: । विऽचष्टे । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.४॥