ऋषिः - वेनः

देवता - ब्रह्मात्मा

छन्दः - त्रिष्टुप्

स्वरः - परमधाम सूक्त

PreviousNext
स्वर सहित मन्त्र

स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑। यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑ ॥

स्वर सहित पद पाठ

सः । न॒ः । पि॒ता । ज॒नि॒ता । सः । उ॒त । बन्धु॑ः । धामा॑नि । वे॒द॒ । भुव॑नानि । विश्वा॑ । यः । दे॒वाना॑म् । ना॒म॒ऽधः । एक॑ः । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । सर्वा॑ ॥१.३॥


स्वर रहित मन्त्र

स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा। यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥


स्वर रहित पद पाठ

सः । नः । पिता । जनिता । सः । उत । बन्धुः । धामानि । वेद । भुवनानि । विश्वा । यः । देवानाम् । नामऽधः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । सर्वा ॥१.३॥