atharvaveda/19/39/1
ऋषिः - भृग्वङ्गिराः
देवता - कुष्ठः
छन्दः - अनुष्टुप्
स्वरः - कुष्ठनाशन सूक्त
आ। ए॒तु॒। दे॒वः। त्राय॑माणः। कुष्ठः॑। हि॒मऽव॑तः। परि॑। त॒क्मान॑म्। सर्व॑म्। ना॒श॒य॒। सर्वाः॑। च॒। या॒तु॒ऽधा॒न्यः᳡ ॥ ३९.१॥
आ। एतु। देवः। त्रायमाणः। कुष्ठः। हिमऽवतः। परि। तक्मानम्। सर्वम्। नाशय। सर्वाः। च। यातुऽधान्यः᳡ ॥ ३९.१॥