ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

अभू॑द्दू॒तःप्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑। प्रादाः॑ पि॒तृभ्यः॑स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

स्वर सहित पद पाठ

अभू॑त् । दू॒तः । प्रऽहि॑तः । जा॒तऽवे॑दाः । सा॒यम् । नि॒ऽअह्ने॑ । उ॒प॒ऽवन्द्य॑ः । नृऽभि॑ः । प्र । अ॒दा॒ः । पि॒तृऽभ्य॑ः । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒ध्दि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥४.६५॥


स्वर रहित मन्त्र

अभूद्दूतःप्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः। प्रादाः पितृभ्यःस्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥


स्वर रहित पद पाठ

अभूत् । दूतः । प्रऽहितः । जातऽवेदाः । सायम् । निऽअह्ने । उपऽवन्द्यः । नृऽभिः । प्र । अदाः । पितृऽभ्यः । स्वधया । ते । अक्षन् । अध्दि । त्वम् । देव । प्रऽयता । हवींषि ॥४.६५॥