ऋषिः - यम, मन्त्रोक्त

देवता - पुरोविराट सतः पङ्क्ति

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

प॒र्णोराजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्। आयु॑र्जी॒वेभ्यो॒विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥

स्वर सहित पद पाठ

प॒र्णः । राजा॑ । अ॒पि॒ऽधान॑म् । च॒रू॒णाम् । ऊ॒र्जः । बल॑म् । सह॑ । ओज॑ः । न॒ः । आ । अ॒ग॒न् । आयु॑ः । जी॒वेभ्य॑ः । विऽद॑धत् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥४.५३॥


स्वर रहित मन्त्र

पर्णोराजापिधानं चरूणामूर्जो बलं सह ओजो न आगन्। आयुर्जीवेभ्योविदधद्दीर्घायुत्वाय शतशारदाय ॥


स्वर रहित पद पाठ

पर्णः । राजा । अपिऽधानम् । चरूणाम् । ऊर्जः । बलम् । सह । ओजः । नः । आ । अगन् । आयुः । जीवेभ्यः । विऽदधत् । दीर्घायुऽत्वाय । शतऽशारदाय ॥४.५३॥