atharvaveda/18/4/52

एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥

आ । इ॒दम् । ब॒र्हि: । अ॒स॒द॒: । मेध्य॑: । अ॒भू॒: । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् । य॒था॒ऽप॒रु । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । गात्रा॑णि । ते॒ । ब्रह्म॑णा । क॒ल्प॒या॒मि॒ ॥४.५२॥

ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥

स्वर सहित पद पाठ

आ । इ॒दम् । ब॒र्हि: । अ॒स॒द॒: । मेध्य॑: । अ॒भू॒: । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् । य॒था॒ऽप॒रु । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । गात्रा॑णि । ते॒ । ब्रह्म॑णा । क॒ल्प॒या॒मि॒ ॥४.५२॥


स्वर रहित मन्त्र

एदं बर्हिरसदोमेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम्। यथापरु तन्वं संभरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥


स्वर रहित पद पाठ

आ । इदम् । बर्हि: । असद: । मेध्य: । अभू: । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् । यथाऽपरु । तन्वम् । सम् । भरस्व । गात्राणि । ते । ब्रह्मणा । कल्पयामि ॥४.५२॥