atharvaveda/18/4/40

आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥

आप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥

ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥

स्वर सहित पद पाठ

आप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥


स्वर रहित मन्त्र

आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्। आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥


स्वर रहित पद पाठ

आप: । अग्निम् । प्र । हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितर: । मे । जुषन्ताम् । आसीनाम् । उर्जम् । उप । ये । सचन्ते । ते । न: । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥४.४०॥