ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥

स्वर सहित पद पाठ

एनी॑ः । धा॒नाः । हरि॑णीः । श्येनी॑ः । अ॒स्य॒ । कृ॒ष्णाः । धा॒नाः । रोहि॑णीः । धे॒नव॑ः । ते॒ । ति॒लऽव॑त्साः ।ऊर्ज॑म् । अ॒स्मै । दुहा॑नाः । वि॒श्वाहा॑ । स॒न्तु॒ । अ॒न॒प॒ऽस्फुर॑न्तीः ॥४.३४॥


स्वर रहित मन्त्र

एनीर्धानाहरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते। तिलवत्साऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्पुरन्तीः ॥


स्वर रहित पद पाठ

एनीः । धानाः । हरिणीः । श्येनीः । अस्य । कृष्णाः । धानाः । रोहिणीः । धेनवः । ते । तिलऽवत्साः ।ऊर्जम् । अस्मै । दुहानाः । विश्वाहा । सन्तु । अनपऽस्फुरन्तीः ॥४.३४॥