ऋषिः - यम, मन्त्रोक्त
देवता - पञ्चपदा भुरिक् अति जगती
छन्दः - अथर्वा
स्वरः - पितृमेध सूक्त
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । प॒श्य॒ । सा॒धु । अङ्गि॑रसः । सु॒ऽकृत॑ः । येन॑ । यन्ति॑ । तेभि॑ः । या॒हि॒ । प॒थिऽभि॑ः । स्व॒ःऽगम् । यत्र॑ । आ॒दि॒त्याः । मधु॑ । भ॒क्षय॑न्ति । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥४.३॥
ऋतस्य । पन्थाम् । अनु । पश्य । साधु । अङ्गिरसः । सुऽकृतः । येन । यन्ति । तेभिः । याहि । पथिऽभिः । स्वःऽगम् । यत्र । आदित्याः । मधु । भक्षयन्ति । तृतीये । नाके । अधि । वि । श्रयस्व ॥४.३॥