ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

यू॒यम॑ग्नेशन्तमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्। अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ॥

स्वर सहित पद पाठ

यू॒यम् । अ॒ग्ने॒ । शम्ऽत॑माभिः । त॒नूभि॑ः । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒ःऽगम् । अश्वा॑ः ।भू॒त्वा । पृ॒ष्टि॒ऽवाह॑ः । व॒हा॒थ॒ । यत्र॑ । दे॒वैः । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥४.१०॥


स्वर रहित मन्त्र

यूयमग्नेशन्तमाभिस्तनूभिरीजानमभि लोकं स्वर्गम्। अश्वा भूत्वा पृष्टिवाहोवहाथ यत्र देवैः सधमादं मदन्ति ॥


स्वर रहित पद पाठ

यूयम् । अग्ने । शम्ऽतमाभिः । तनूभिः । ईजानम् । अभि । लोकम् । स्वःऽगम् । अश्वाः ।भूत्वा । पृष्टिऽवाहः । वहाथ । यत्र । देवैः । सधऽमादम् । मदन्ति ॥४.१०॥