ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

ए॒तदा रो॑ह॒ वय॑उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते। अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाःपितॄ॒णां लो॒कं प्र॑थ॒मो यो अत्र॑ ॥

स्वर सहित पद पाठ

ए॒तत् । आ । रो॒ह॒ । वय॑ः । उ॒त्ऽमृ॒जा॒नः । स्वाः । इ॒ह । बृ॒हत् । ऊं॒ इति॑ । दी॒द॒य॒न्ते॒ । अ॒भि । प्र । इ॒हि॒ । म॒ध्य॒तः । मा ।अप॑ । हा॒स्था॒ः । पि॒तॄणाम् । लो॒कम् । प्र॒थ॒मः। यः । अत्र॑ ॥३.७३॥


स्वर रहित मन्त्र

एतदा रोह वयउन्मृजानः स्वा इह बृहदु दीदयन्ते। अभि प्रेहि मध्यतो माप हास्थाःपितॄणां लोकं प्रथमो यो अत्र ॥


स्वर रहित पद पाठ

एतत् । आ । रोह । वयः । उत्ऽमृजानः । स्वाः । इह । बृहत् । ऊं इति । दीदयन्ते । अभि । प्र । इहि । मध्यतः । मा ।अप । हास्थाः । पितॄणाम् । लोकम् । प्रथमः। यः । अत्र ॥३.७३॥