ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

वि॒वस्वा॑न्नो॒अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑। इ॒हेमे वी॒रा ब॒हवो॑भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ॥

स्वर सहित पद पाठ

वि॒वस्वा॑न् । न॒ः । अभय॑म् । कृ॒णो॒तु॒ । यः । सु॒ऽत्रामा॑ । जी॒रऽदा॑नुः । सु॒ऽदानु॑ः । इ॒ह । इ॒मे । वी॒राः । ब॒हव॑ः । भ॒व॒न्तु॒ । गोऽम॑त् । अश्व॑ऽवत् । मयि॑ । अ॒स्तु॒ । पु॒ष्टम् ॥३.६१॥


स्वर रहित मन्त्र

विवस्वान्नोअभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः। इहेमे वीरा बहवोभवन्तु गोमदश्ववन्मय्यस्तु पुष्टम् ॥


स्वर रहित पद पाठ

विवस्वान् । नः । अभयम् । कृणोतु । यः । सुऽत्रामा । जीरऽदानुः । सुऽदानुः । इह । इमे । वीराः । बहवः । भवन्तु । गोऽमत् । अश्वऽवत् । मयि । अस्तु । पुष्टम् ॥३.६१॥