ऋषिः - पितरगण

देवता - जगती

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

ये नः॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सं॑ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥

स्वर सहित पद पाठ

ये । न॒ः । पि॒तुः । पि॒तर॑ः । ये । पि॒ता॒म॒हाः । अ॒नु॒ऽज॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठाः । तेभि॑ः । य॒मः । स॒म्ऽर॒रा॒णः । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभि॑ः । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥३.४६॥


स्वर रहित मन्त्र

ये नः पितुःपितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः। तेभिर्यमः संरराणोहवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥


स्वर रहित पद पाठ

ये । नः । पितुः । पितरः । ये । पितामहाः । अनुऽजहिरे । सोमऽपीथम् । वसिष्ठाः । तेभिः । यमः । सम्ऽरराणः । हवींषि । उशन् । उशत्ऽभिः । प्रतिऽकामम् । अत्तु ॥३.४६॥