ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

यद्वो॑ मु॒द्रंपि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त। ते अ॑र्वाणः कवय॒ आ शृ॑णोतसुवि॒दत्रा॑ वि॒दथे॑ हू॒यमा॑नाः ॥

स्वर सहित पद पाठ

यत् । व॒ः । मु॒द्रम् । पि॒त॒र॒ः । सो॒म्यम् । च॒ । ते॒नो॒ इति॑ । स॒च॒ध्व॒म् । स्वऽय॑शसः । हि । भू॒त । ते । अ॒र्वा॒ण॒ः । क॒व॒य॒ः । आ । शृ॒णो॒त॒ । सु॒ऽवि॒द॒त्राः । वि॒दथे॑ । हू॒यमा॑नाः ॥३.१९॥


स्वर रहित मन्त्र

यद्वो मुद्रंपितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत। ते अर्वाणः कवय आ शृणोतसुविदत्रा विदथे हूयमानाः ॥


स्वर रहित पद पाठ

यत् । वः । मुद्रम् । पितरः । सोम्यम् । च । तेनो इति । सचध्वम् । स्वऽयशसः । हि । भूत । ते । अर्वाणः । कवयः । आ । शृणोत । सुऽविदत्राः । विदथे । हूयमानाः ॥३.१९॥