ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥

स्वर सहित पद पाठ

अ॒जः । भा॒गः । तप॑सः । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः । याः । ते॒ । शि॒वाः । त॒न्व᳡ः । जा॒त॒ऽवे॒द॒ः । ताभि॑ः । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥२.८॥


स्वर रहित मन्त्र

अजोभागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः। यास्तेशिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥


स्वर रहित पद पाठ

अजः । भागः । तपसः । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते । अर्चिः । याः । ते । शिवाः । तन्व᳡ः । जातऽवेदः । ताभिः । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥