ऋषिः - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
स्वरः - पितृमेध सूक्त
ए॒तत् । त्वा॒ । वास॑ः । प्र॒थ॒मम् । नु । आ । अ॒ग॒न् । अप॑ । ए॒तत् । ऊ॒ह । यत् । इ॒ह । अबि॑भः । पु॒रा । इ॒ष्टा॒पू॒र्तम् । अ॒नु॒ऽसंक्रा॑म । वि॒द्वान् । यत्र॑ । ते॒ । द॒त्तम् । ब॒हु॒ऽधा । विऽब॑न्धुषु ॥२.५७॥
एतत् । त्वा । वासः । प्रथमम् । नु । आ । अगन् । अप । एतत् । ऊह । यत् । इह । अबिभः । पुरा । इष्टापूर्तम् । अनुऽसंक्राम । विद्वान् । यत्र । ते । दत्तम् । बहुऽधा । विऽबन्धुषु ॥२.५७॥