atharvaveda/18/2/29

सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥

सम् । वि॒श॒न्तु॒ । इ॒ह । पि॒तर॑: । स्वा: । न॒: ।स्यो॒नम् । कृ॒ण्वन्त॑: । प्र॒ऽति॒रन्त॑: । आयु॑: । तेभ्य॑: । श॒के॒म॒ । ह॒विषा॑ । नक्ष॑माणा: । ज्योक् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: ॥२.२९॥

ऋषिः - पितरगण

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

स्वर सहित मन्त्र

सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥

स्वर सहित पद पाठ

सम् । वि॒श॒न्तु॒ । इ॒ह । पि॒तर॑: । स्वा: । न॒: ।स्यो॒नम् । कृ॒ण्वन्त॑: । प्र॒ऽति॒रन्त॑: । आयु॑: । तेभ्य॑: । श॒के॒म॒ । ह॒विषा॑ । नक्ष॑माणा: । ज्योक् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: ॥२.२९॥


स्वर रहित मन्त्र

सं विशन्त्विहपितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः। तेभ्यः शकेम हविषानक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥


स्वर रहित पद पाठ

सम् । विशन्तु । इह । पितर: । स्वा: । न: ।स्योनम् । कृण्वन्त: । प्रऽतिरन्त: । आयु: । तेभ्य: । शकेम । हविषा । नक्षमाणा: । ज्योक् । जीवन्त: । शरद: । पुरूची: ॥२.२९॥