ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥

स्वर सहित पद पाठ

ह्वया॑मि । ते॒ । मन॑सा । मन॑ः । इ॒ह । इ॒मान् । गृ॒हान् । उप॑ । जु॒जु॒षा॒णः । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑ः । सम् । य॒मेन॑ । स्यो॒नाः । त्वा॒ । वाता॑ः । उप॑ । वा॒न्तु॒ । श॒ग्माः ॥२.२१॥


स्वर रहित मन्त्र

ह्वयामि तेमनसा मन इहेमान्गृहाँ उप जुजुषाण एहि। सं गच्छस्व पितृभिः सं यमेनस्योनास्त्वा वाता उप वान्तु शग्माः ॥


स्वर रहित पद पाठ

ह्वयामि । ते । मनसा । मनः । इह । इमान् । गृहान् । उप । जुजुषाणः । आ । इहि । सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । स्योनाः । त्वा । वाताः । उप । वान्तु । शग्माः ॥२.२१॥