ऋषिः - यम, मन्त्रोक्त

देवता - अनुष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

तप॑सा॒ येअ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वर्य॒युः। तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑गच्छतात् ॥

स्वर सहित पद पाठ

तप॑सा। ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्व᳡ः । य॒युः । तप॑ः । ये । च॒क्रि॒रे । मह॑ः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१६॥


स्वर रहित मन्त्र

तपसा येअनाधृष्यास्तपसा ये स्वर्ययुः। तपो ये चक्रिरे महस्तांश्चिदेवापिगच्छतात् ॥


स्वर रहित पद पाठ

तपसा। ये । अनाधृष्याः । तपसा । ये । स्व᳡ः । ययुः । तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥२.१६॥