ऋषिः - यम, मन्त्रोक्त

देवता - अनुष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

ये चि॒त्पूर्व॑ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥

स्वर सहित पद पाठ

ये । चि॒त् । पूर्वे॑ । ऋ॒तऽसा॑ताः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृध॑ः । ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒प॒ःऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१५॥


स्वर रहित मन्त्र

ये चित्पूर्वऋतसाता ऋतजाता ऋतावृधः। ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥


स्वर रहित पद पाठ

ये । चित् । पूर्वे । ऋतऽसाताः । ऋतऽजाताः । ऋतऽवृधः । ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥२.१५॥