ऋषिः - यम, मन्त्रोक्त

देवता - त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

अपे॑त॒ वीत॒ विच॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन्।अहो॑भिर॒द्भिर॒क्तुभि॒र्व्यक्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥

स्वर सहित पद पाठ

अप॑ । इ॒त॒ । वि । इ॒त॒ । तवि । च॒ । स॒र्प॒त॒ । अत॑ः । अ॒स्मै । ए॒तम् । पि॒तर॑ः । लो॒कम् । अ॒क्र॒न् । अह॑ःऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभि॑ः । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥१.५५॥


स्वर रहित मन्त्र

अपेत वीत विच सर्पतातोऽस्मा एतं पितरो लोकमक्रन्।अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥


स्वर रहित पद पाठ

अप । इत । वि । इत । तवि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् । अहःऽभिः । अत्ऽभिः । अक्तुऽभिः । विऽअक्तम् । यमः । ददाति । अवऽसानम् । अस्मै ॥१.५५॥