ऋषिः - यम, मन्त्रोक्त

देवता - भुरिक् त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒मो नो॑ गा॒तुंप्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑। यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॒परे॑ता ए॒ना ज॑ज्ञा॒नाः प॒थ्या॒ अनु॒ स्वाः ॥

स्वर सहित पद पाठ

य॒मः । न॒ः । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑तिः । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ । यत्र॑ । न॒ः । पूर्वे॑ । पि॒तर॑ः । परा॑ऽइताः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्या᳡ः। अनु॑ । स्वाः ॥१.५०॥


स्वर रहित मन्त्र

यमो नो गातुंप्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ। यत्रा नः पूर्वे पितरःपरेता एना जज्ञानाः पथ्या अनु स्वाः ॥


स्वर रहित पद पाठ

यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिः । अपऽभर्तवै । ऊं इति । यत्र । नः । पूर्वे । पितरः । पराऽइताः । एना । जज्ञानाः । पथ्या᳡ः। अनु । स्वाः ॥१.५०॥