ऋषिः - यम, मन्त्रोक्त

देवता - भुरिक् त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - पितृमेध सूक्त

PreviousNext
स्वर सहित मन्त्र

न वा उ॑ ते त॒नूंत॒न्वा॒ सं पि॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त्। असं॑यदे॒तन्मन॑सोहृ॒दो मे॒ भ्राता॒ स्वसुः॒ शय॑ने॒ यच्छयी॑य ॥

स्वर सहित पद पाठ

न । वै । ऊं॒ इति॑ । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हु॒ः । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अस॑म्ऽयत् । ए॒तत् । मन॑सः । हृ॒दः । मे॒ । भ्राता॑ । स्वसु॑ः । शय॑ने । यत् । श॒यी॒य॒ ॥१.१४॥


स्वर रहित मन्त्र

न वा उ ते तनूंतन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्। असंयदेतन्मनसोहृदो मे भ्राता स्वसुः शयने यच्छयीय ॥


स्वर रहित पद पाठ

न । वै । ऊं इति । ते । तनूम् । तन्वा᳡ । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निऽगच्छात् । असम्ऽयत् । एतत् । मनसः । हृदः । मे । भ्राता । स्वसुः । शयने । यत् । शयीय ॥१.१४॥