ऋषिः - आदित्य
देवता - त्र्यवसाना षट्पदा अति जगती
छन्दः - ब्रह्मा
स्वरः - अभ्युदयार्थप्रार्थना सूक्त
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒ःऽजित॑म् । स्व॒ःऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । प्रि॒यः । प॒शू॒नाम् । भू॒या॒स॒म् ॥१.४॥
विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सहःऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रियः । पशूनाम् । भूयासम् ॥१.४॥