ऋषिः - आदित्य
देवता - त्र्यवसाना सप्तदा प्रकृति
छन्दः - ब्रह्मा
स्वरः - अभ्युदयार्थप्रार्थना सूक्त
या । ते॒ । इ॒न्द्र॒ । त॒नूः । अ॒प्ऽसु । या । पृ॒थि॒व्याम् । या । अ॒न्तः । अ॒ग्नौ । या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्व॒ःऽविदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा᳡ । अ॒न्तरि॑क्षम् । वि॒ऽआ॒पि॒थ । तया॑ । न॒ः । इ॒न्द्र॒ । त॒न्वा᳡ । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒ः । पृ॒णी॒हि॒ । प॒शुऽभि॑ः । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१३॥
या । ते । इन्द्र । तनूः । अप्ऽसु । या । पृथिव्याम् । या । अन्तः । अग्नौ । या । ते । इन्द्र । पवमाने । स्वःऽविदि । यया । इन्द्र । तन्वा᳡ । अन्तरिक्षम् । विऽआपिथ । तया । नः । इन्द्र । तन्वा᳡ । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्या᳡णि । त्वम् । नः । पृणीहि । पशुऽभिः । विश्वऽरूपैः । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१३॥