ऋषिः - आदित्य
देवता - त्र्यवसाना अष्टपदाधृति
छन्दः - ब्रह्मा
स्वरः - अभ्युदयार्थप्रार्थना सूक्त
त्वम् । न॒ः । इ॒न्द्र॒ । ऊ॒तिऽभि॑ः । शि॒वाभि॑ः । शम्ऽत॑मः । भ॒व॒ । आ॒ऽरोह॑न् । त्रि॒ऽदि॒वम् । दि॒वः । गृ॒णा॒नः । सोम॑ऽपीतये । प्रि॒यऽधा॑मा । स्व॒स्तये॑ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒ः । पृ॒णी॒हि॒ । प॒शुऽभि॑ः । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन ॥१.१०॥
त्वम् । नः । इन्द्र । ऊतिऽभिः । शिवाभिः । शम्ऽतमः । भव । आऽरोहन् । त्रिऽदिवम् । दिवः । गृणानः । सोमऽपीतये । प्रियऽधामा । स्वस्तये । तव । इत् । विष्णो इति । बहुऽधा । वीर्या᳡णि । त्वम् । नः । पृणीहि । पशुऽभिः । विश्वऽरूपैः । सुऽधायाम् । मा । धेहि । परमे । विऽओमन ॥१.१०॥