ऋषिः - दुःस्वप्ननासन
देवता - यजुर्ब्राह्मी एकपदा अनुष्टुप्
छन्दः - यम
स्वरः - दुःख मोचन सूक्त
जि॒तम् । अ॒स्माक॑म् । उ॒त्ऽभि॑न्नम् । अ॒स्माक॑म् । ऋ॒तम् । अ॒स्माक॑म् । तेज॑ः । अ॒स्माक॑म् । ब्रह्म॑ । अ॒स्माक॑म् । स्व᳡ः । अ॒स्माक॑म् । य॒ज्ञः । अ॒स्माक॑म् । प॒शव॑ः । अ॒स्माक॑म् । प्र॒ऽजाः । अ॒स्माक॑म् । वी॒राः । अ॒स्माक॑म् ॥८.१॥
जितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । ऋतम् । अस्माकम् । तेजः । अस्माकम् । ब्रह्म । अस्माकम् । स्व᳡ः । अस्माकम् । यज्ञः । अस्माकम् । पशवः । अस्माकम् । प्रऽजाः । अस्माकम् । वीराः । अस्माकम् ॥८.१॥