ऋषिः - रुद्र

देवता - द्विपदा प्राजापत्या अनुष्टुप्,त्रिपदा ब्राह्मी गायत्री

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒नैनं॑ श॒र्वो न भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑॥

स्वर सहित पद पाठ

प॒शु॒ऽपति॑ः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । प्र॒तीच्या॑ः । दि॒शः । अ॒न्त॒ःऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न । ईशा॑नः । न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । यः । ए॒वम् । वेद॑ ॥५.७॥


स्वर रहित मन्त्र

पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठतिनैनं शर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद॥


स्वर रहित पद पाठ

पशुऽपतिः । एनम् । इषुऽआसः । प्रतीच्याः । दिशः । अन्तःऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्वः । न । भवः । न । ईशानः । न । अस्य । पशून् । न । समानम् । हिनस्ति । यः । एवम् । वेद ॥५.७॥