ऋषिः - रुद्र

देवता - त्रिपदा भुरिक् आर्ची त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

भव॑ एनमिष्वा॒सःप्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति नैनं॑ श॒र्वो नभ॒वो नेशा॑नः ॥

स्वर सहित पद पाठ

भ॒वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । प्राच्या॑ः । दि॒शः । अ॒न्त॒ःऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न । ईशा॑नः ॥५.२॥


स्वर रहित मन्त्र

भव एनमिष्वासःप्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो नभवो नेशानः ॥


स्वर रहित पद पाठ

भवः । एनम् । इषुऽआसः । प्राच्याः । दिशः । अन्तःऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्वः । न । भवः । न । ईशानः ॥५.२॥