ऋषिः - अध्यात्म अथवा व्रात्य

देवता - आसुरी गायत्री, पदपङ्क्ति,त्रिपदा प्राजापत्या त्रिष्टुप्

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

अह॑श्च॒ रात्री॑च परिष्क॒न्दौ मनो॑ विप॒थम्। मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थीरे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑गच्छति॒ य ए॒वं वेद॑ ॥

स्वर सहित पद पाठ

अह॑ः । च॒ । रात्री॑ । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑ः । वि॒ऽप॒थम् । मा॒त॒रिश्वा॑ । च॒ । पव॑मानः । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑ः । सार॑थिः । रे॒ष्मा । प्र॒ऽतो॒दः । की॒र्तिः । च॒ । यश॑ः । च॒ । पु॒र॒ःऽस॒रौ । आ । ए॒न॒म् । की॒र्तिः । ग॒च्छ॒ति॒ । आ । यश॑ः । ग॒च्छ॒ति॒ । यः । ए॒वम् । वेद॑ ॥२.२०॥


स्वर रहित मन्त्र

अहश्च रात्रीच परिष्कन्दौ मनो विपथम्। मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीरेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशोगच्छति य एवं वेद ॥


स्वर रहित पद पाठ

अहः । च । रात्री । च । परिऽस्कन्दौ । मनः । विऽपथम् । मातरिश्वा । च । पवमानः । च । विपथऽवाहौ । वातः । सारथिः । रेष्मा । प्रऽतोदः । कीर्तिः । च । यशः । च । पुरःऽसरौ । आ । एनम् । कीर्तिः । गच्छति । आ । यशः । गच्छति । यः । एवम् । वेद ॥२.२०॥