atharvaveda/15/11/2

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥

स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ ॥११.२॥

ऋषिः - अध्यात्म अथवा व्रात्य

देवता - द्विपदा पूर्वात्रिष्टुप् अतिशक्वरी

छन्दः - अथर्वा

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥

स्वर सहित पद पाठ

स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ ॥११.२॥


स्वर रहित मन्त्र

स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्यतर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा तेवशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥


स्वर रहित पद पाठ

स्वयम् । एनम् । अभिऽउदेत्य । ब्रूयात् । व्रात्य । क्व᳡ । अवात्सी: । व्रात्य । उदकम् । व्रात्य । तर्पयन्तु । व्रात्य । यथा । ते । प्रियम् । तथा । अस्तु । व्रात्य । यथा । ते । वश: । तथा । अस्तु । व्रात्य । यथा । ते । निऽकाम: । तथा । अस्तु । इति ॥११.२॥