atharvaveda/14/2/9

इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥

इ॒दम् । सु । मे॒ । न॒र॒: । शृ॒णु॒त॒ । यया॑ । आ॒ऽशिषा॑ । दंप॑ती॒ इति॒ दम्ऽप॑ती । वा॒मम् । अ॒श्नु॒त: । ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । दे॒वी: । ए॒षु । वा॒न॒स्प॒त्येषु॑ । ये । अधि॑ । त॒स्थु: । स्यो॒ना: । ते॒ । अ॒स्यै । व॒ध्वै । भ॒व॒न्तु॒ । मा । हिं॒सि॒षु॒: । व॒ह॒तुम् । उ॒ह्यमा॑नम् ॥२.९॥

ऋषिः - आत्मा

देवता - त्र्यवसाना षट्पदा विराट् अत्यष्टि

छन्दः - सवित्री, सूर्या

स्वरः - विवाह प्रकरण सूक्त

स्वर सहित मन्त्र

इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥

स्वर सहित पद पाठ

इ॒दम् । सु । मे॒ । न॒र॒: । शृ॒णु॒त॒ । यया॑ । आ॒ऽशिषा॑ । दंप॑ती॒ इति॒ दम्ऽप॑ती । वा॒मम् । अ॒श्नु॒त: । ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । दे॒वी: । ए॒षु । वा॒न॒स्प॒त्येषु॑ । ये । अधि॑ । त॒स्थु: । स्यो॒ना: । ते॒ । अ॒स्यै । व॒ध्वै । भ॒व॒न्तु॒ । मा । हिं॒सि॒षु॒: । व॒ह॒तुम् । उ॒ह्यमा॑नम् ॥२.९॥


स्वर रहित मन्त्र

इदं सु मे नरःशृणुत ययाशिषा दंपती वाममश्नुतः। ये गन्धर्वा अप्सरसश्च देवीरेषुवानस्पत्येषु येऽधि तस्थुः। स्योनास्ते अस्यै वध्वै भवन्तु माहिंसिषुर्वहतुमुह्यमानम् ॥


स्वर रहित पद पाठ

इदम् । सु । मे । नर: । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुत: । ये । गन्धर्वा: । अप्सरस: । च । देवी: । एषु । वानस्पत्येषु । ये । अधि । तस्थु: । स्योना: । ते । अस्यै । वध्वै । भवन्तु । मा । हिंसिषु: । वहतुम् । उह्यमानम् ॥२.९॥