ऋषिः - आत्मा

देवता - त्रिष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र बु॑ध्यस्वसु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥

स्वर सहित पद पाठ

प्र । बु॒ध्य॒स्व॒ । सु॒ऽबुधा॑ । बुध्य॑माना । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । अस॑ः । दी॒र्घम् । ते॒ । आयु॑ः । स॒वि॒ता । कृ॒णो॒तु॒ ॥२.७५॥


स्वर रहित मन्त्र

प्र बुध्यस्वसुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय। गृहान्गच्छ गृहपत्नीयथासो दीर्घं त आयुः सविता कृणोतु ॥


स्वर रहित पद पाठ

प्र । बुध्यस्व । सुऽबुधा । बुध्यमाना । दीर्घायुऽत्वाय । शतऽशारदाय । गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । दीर्घम् । ते । आयुः । सविता । कृणोतु ॥२.७५॥