ऋषिः - आत्मा

देवता - अनुष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

सोमो॑ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑। र॒यिं च॑पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥

स्वर सहित पद पाठ

सोम॑ः । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥२.४॥


स्वर रहित मन्त्र

सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥


स्वर रहित पद पाठ

सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये । रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥२.४॥