ऋषिः - देवगण

देवता - परानुष्टुप् त्रिष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

रा॒या व॒यंसु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम्। अग॒न्त्स दे॒वः प॑र॒मंस॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥

स्वर सहित पद पाठ

रा॒या । व॒यम् । सु॒ऽमन॑सः । स्या॒म॒ । उत् । इ॒तः । ग॒न्ध॒र्वम् । आ । अ॒वी॒वृ॒ता॒म॒ । अग॑न् । सः । दे॒वः । प॒र॒मम् । स॒धऽस्थ॑म् । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयु॑ः ॥२.३६॥


स्वर रहित मन्त्र

राया वयंसुमनसः स्यामोदितो गन्धर्वमावीवृताम्। अगन्त्स देवः परमंसधस्थमगन्म यत्र प्रतिरन्त आयुः ॥


स्वर रहित पद पाठ

राया । वयम् । सुऽमनसः । स्याम । उत् । इतः । गन्धर्वम् । आ । अवीवृताम । अगन् । सः । देवः । परमम् । सधऽस्थम् । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥२.३६॥