ऋषिः - आत्मा

देवता - अनुष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

स्तोमा॑आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः। सू॒र्याया॑ अ॒श्विना॑व॒राग्निरा॑सीत्पुरोग॒वः ॥

स्वर सहित पद पाठ

स्तोमा॑ः । आ॒स॒न् । प्र॒ति॒ऽधय॑ः । कु॒रीर॑म् । छन्द॑ः । ओ॒प॒शः । सू॒र्याया॑ः । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒र॒ःऽग॒वः ॥१.८॥


स्वर रहित मन्त्र

स्तोमाआसन्प्रतिधयः कुरीरं छन्द ओपशः। सूर्याया अश्विनावराग्निरासीत्पुरोगवः ॥


स्वर रहित पद पाठ

स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः । सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥१.८॥