ऋषिः - आत्मा

देवता - त्रिष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒मं गा॑वःप्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम्। अ॒स्मै वः॑ पू॒षाम॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ॥

स्वर सहित पद पाठ

इ॒मम् । गा॒व॒ः । प्र॒ऽजया॑ । सम् । वि॒शा॒थ॒ । अ॒यम् । दे॒वाना॑म् । न । मि॒ना॒ति॒ । भा॒गम् । अ॒स्मै । व॒ः । पू॒षा । म॒रुत॑ः । च॒ । सर्वे॑ । अ॒स्मै । व॒ः । धा॒ता । स॒वि॒ता। सु॒वा॒ति॒ ॥१.३३॥


स्वर रहित मन्त्र

इमं गावःप्रजया सं विशाथायं देवानां न मिनाति भागम्। अस्मै वः पूषामरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥


स्वर रहित पद पाठ

इमम् । गावः । प्रऽजया । सम् । विशाथ । अयम् । देवानाम् । न । मिनाति । भागम् । अस्मै । वः । पूषा । मरुतः । च । सर्वे । अस्मै । वः । धाता । सविता। सुवाति ॥१.३३॥