ऋषिः - चन्द्रमा

देवता - त्रिष्टुप्

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

नवो॑नवो भवसि॒जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्। भा॒गं दे॒वेभ्यो॒ विद॑धास्या॒यन्प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ॥

स्वर सहित पद पाठ

नव॑ऽनवः । भ॒व॒सि॒ । जाय॑मानः। अह्ना॑म् । के॒तुः। । उ॒षसा॑म् । ए॒षि॒ । अग्र॑म् । भा॒गम् । दे॒वेभ्य॑ः । वि । द॒धा॒सि॒ । आ॒ऽयन् । प्र । च॒न्द्र॒म॒ः । ति॒र॒से॒ । दी॒र्घम् । आयु॑ः ॥१.२४॥


स्वर रहित मन्त्र

नवोनवो भवसिजायमानोऽह्नां केतुरुषसामेष्यग्रम्। भागं देवेभ्यो विदधास्यायन्प्र चन्द्रमस्तिरसे दीर्घमायुः ॥


स्वर रहित पद पाठ

नवऽनवः । भवसि । जायमानः। अह्नाम् । केतुः। । उषसाम् । एषि । अग्रम् । भागम् । देवेभ्यः । वि । दधासि । आऽयन् । प्र । चन्द्रमः । तिरसे । दीर्घम् । आयुः ॥१.२४॥