ऋषिः - आत्मा

देवता - आत्मा

छन्दः - सवित्री सूर्या

स्वरः - विवाह प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒हैव स्तं॒ मावि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यश्नुतम्। क्रीड॑न्तौपु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ ॥

स्वर सहित पद पाठ

इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयु॑ः । वि । अ॒श्नु॒त॒म् । क्रीड॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । सु॒ऽअ॒स्त॒कौ ॥१.२२॥


स्वर रहित मन्त्र

इहैव स्तं मावि यौष्टं विश्वमायुर्व्यश्नुतम्। क्रीडन्तौपुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥


स्वर रहित पद पाठ

इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् । क्रीडन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । सुऽअस्तकौ ॥१.२२॥