atharvaveda/13/3/7
ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदानुष्टुब्गर्भातिधृतिः
स्वरः - अध्यात्म सूक्त
य: । अ॒न्न॒ऽअ॒द: । अन्न॑ऽपति: । ब॒भूव॑ । ब्रह्म॑ण: । पति॑: । उ॒त । य: । भू॒त: । भ॒वि॒ष्यत् । भुव॑नस्य । य: । पति॑: । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.७॥
य: । अन्नऽअद: । अन्नऽपति: । बभूव । ब्रह्मण: । पति: । उत । य: । भूत: । भविष्यत् । भुवनस्य । य: । पति: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.७॥