ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
स्वरः - अध्यात्म सूक्त
यस्मि॑न् । वि॒ऽराट् । प॒र॒मे॒ऽस्थी । प्र॒जाऽप॑तिः । अ॒ग्निः । वै॒श्वा॒न॒रः । स॒ह । प॒ङ्क्त्या । श्रि॒तः । यः । पर॑स्य । प्रा॒णम् । प॒र॒मस्य॑ । तेज॑ः । आ॒ऽद॒दे । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑ः । यः । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.५॥
यस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपतिः । अग्निः । वैश्वानरः । सह । पङ्क्त्या । श्रितः । यः । परस्य । प्राणम् । परमस्य । तेजः । आऽददे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.५॥